|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.75. अध्यायः 075
Mahabharata - Sabha Parva - Chapter Topics
शकुनिना दुर्योधनम्प्रति पाण्डवानां पौरुषेणाजय्यत्वकथनपूर्वकं द्यूतेन जेष ्यामीति समाश्वासनादिकम्॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
शकुनिरुवाच॥
दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम्।
भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा॥ 2-75-1(14270)
विधानं विविधाकारं परं तेषां विधानतः।
अनेकैरभ्युपायैश्च त्वया न शकिताः पुरा॥ 2-75-2(14271)
आरब्धा हि महाराज पुनः पुनररिन्दम।
विमुक्ताश्च नरव्याघ्रा भगधेयपुरस्कृताः।
`उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु'॥ 2-75-3(14272)
तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह।
सहायाः पृथिवीपाला वासुदेवश्च वीर्यवान्॥ 2-75-4(14273)
लब्धश्चानभिभूतार्थैः पित्र्योंशः पृथिवीपते।
विवृद्धस्तेजसा तेषां तत्र का परिदेवना॥ 2-75-5(14274)
धनञ्जयेन गाण्डीवमक्षय्यौ च महेषुधी।
लब्धान्यस्त्राणि दिव्यानि तोषयित्वा हुताशनम्॥ 2-75-6(14275)
तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः।
कृता वशे महीपालास्तत्र का परिदेवना॥ 2-75-7(14276)
अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम्।
सभां तां कारयामास सव्यसाची परन्तपः॥ 2-75-8(14277)
तेन चैव मयेनोक्ताः किङ्करा नाम राक्षसाः।
वहन्ति तां सभां भीमास्तत्र का परिदेवना॥ 2-75-9(14278)
यच्चासहायतां राजन्नुक्तवानसि भारत।
तन्मिथ्या भ्रातरो हीमे तव सर्वे वशानुगाः॥ 2-75-10(14279)
द्रोणस्तव महेष्वासः सह पुत्रेण वीर्यवान्।
मूतपुत्रश्च राधेयो दृढधन्वा महारथः॥ 2-75-11(14280)
`स एकः समरे सर्वान्पाण्डवान्सहसोमकान्।
विजेष्यति महाबाहो किं सहायैः करिष्यसि॥ 2-75-12(14281)
भीष्मश्च पुरुषव्याघ्रो गौतमश्च महारथः।
जयद्रथश्च बलावान्सोमदत्तस्तथैव च'॥ 2-75-13(14282)
अहं च सह सोदर्यैः सौमदत्तिश्च पार्थिवः।
एतैस्त्वं सहितः सर्वैर्जय कृत्स्नं वसुन्दराम्॥ 2-75-14(14283)
दुर्योधन उवाच। 2-75-15x(1514)
त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः।
एतानहं विजेष्यामि यदि त्वमनुमन्यसे॥ 2-75-15(14284)
एतेषु विजितेष्वद्य भविष्यति मही मम।
सर्वे च पृथिवीपालाः सभा सा च महाधना॥ 2-75-16(14285)
शकुनिरुवाच॥ 2-75-17x(1515)
धनञ्जयो वासुदेवो भीमसेनो युधिष्ठिरः।
नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः॥ 2-75-17(14286)
नैते युधि पराजेतुं शक्या देवगणैरपि।
महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः॥ 2-75-18(14287)
अहं तु तद्विजानामि विजेतुं येन शक्यते।
युधिष्ठिरं स्वयं राजंस्तन्निबोध जुषस्व च॥ 2-75-19(14288)
दुर्योधन उवाच॥ 2-75-20x(1516)
अप्रमादेन सुहृदामन्येषां च महात्मनाम्।
यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल॥ 2-75-20(14289)
शकुनिरुवाच। 2-75-21x(1517)
द्यूतप्रियश्च कौन्तेयो न स जानाति देवितुम्।
समाहूतश्च राजेन्द्रो न शक्ष्यति तिवर्तितुम्॥ 2-75-21(14290)
देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि।
त्रिषु लोकेषु कौरव्य तं त्वं द्यूते समाह्वय॥ 2-75-22(14291)
तस्याक्षकुशलो राजन्नादास्येऽहमसंशयम्।
राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ॥ 2-75-23(14292)
इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय।
अनुज्ञातस्तु ते पित्रा विजेष्ये तान्न संशयः॥ 2-75-24(14293)
दुर्योधन उवाच। 2-75-25x(1518)
त्वमेव करुमुख्याय धृतराष्ट्राय सौबल।
निवेदय यथान्यायं नाहं शक्ष्ये निवेदितुम्॥ ॥ 2-75-25(14294)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि पञ्चसप्ततितमोऽध्यायः॥75 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|